Stavan
Stavan
Manglashtak Stotram

मंगलाष्टक स्तोत्र | Manglashtak Stotram

Stotra

Play Now

Lyrics of Manglashtak Stotram by Stavan.co

|| श्री पंचपरमेष्ठी वंदन ||

अरिहन्तो-भगवन्त इन्द्रमहिता: सिद्धाश्च सिद्धीश्वरा:,

आचार्या: जिनशासनोन्नतिकरा: पूज्या उपाध्यायका: |

श्रीसिद्धान्त-सुपाठका: मुनिवरा: रत्नत्रयाराधका:,

पंचैते परमेष्ठिन: प्रतिदिनं कुर्वन्तु ते मंगलम् ||


श्रीमन्नम्र – सुरासुरेन्द्र – मुकुट – प्रद्योत – रत्नप्रभा-

भास्वत्पाद – नखेन्दव: प्रवचनाम्भोधीन्दव: स्थायिन:|

ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठका: साधव:,

स्तुत्या योगीजनैश्च पंचगुरव: कुर्वन्तु ते मंगलम् ||१||


सम्यग्दर्शन – बोध – वृत्तममलं रत्नत्रयं पावनं,

मुक्तिश्री – नगराधिनाथ – जिनपत्युक्तोऽपवर्गप्रद:|

धर्म-सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्रयालयं,

प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ||२||


नाभेयादि जिनाधिपास्त्रिभुवन ख्याताश्चतुर्विंशति:,

श्रीमन्तो भरतेश्वर – प्रभृतयो ये चक्रिणो द्वादश |

ये विष्णु – प्रतिविष्णु – लांगलधरा: सप्तोत्तरा विंशति:,

त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषा: कुर्वन्तु ते मंगलम् ||३||


ये सर्वोषधऋद्धय: सुतपसो वृद्धिंगता: पञ्च ये,

ये चाष्टांग – महानिमित्त – कुशला येऽष्टौ-विधाश्चारणा:|

पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धि – ऋद्धीश्वरा:,

सप्तैते सकलार्चिता गणभृत: कुर्वन्तु ते मंगलम् ||४||


ज्योतिर्व्यन्तर – भावनामरगृहे मेरौ कुलाद्रौ तथा ,

जम्बू-शाल्मलि – चैत्य – शाखिषु तथा वक्षार रूप्याद्रिषु |

इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे,

शैले ये मनुजोत्तरे जिनगृहा: कुर्वन्तु ते मंगलम् ||५||


कैलासे वृषभस्य निर्वृतिमही वीरस्य पावापुरे,

चम्पायां वसुपूज्यसज्जिनपते: सम्मेदशैलेऽर्हताम् |

शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतो,

निर्वाणावनय: प्रसिद्धविभवा: कुर्वन्तु ते मंगलम् ||६||


यो गर्भावतरोत्सवो भगवतां यो जन्माभिषेकोत्सवो,

यो जात: परिनिष्क्रमेण विभवो य: केवलज्ञानभाक् |

य: कैवल्यपुर – प्रवेश – महिमा संपादित: स्वर्गिभि:,

कल्याणानि च तानि पंच सततं कुर्वन्तु ते मंगलम् ||७||


सर्पोहार-लता भवति असिलता, सत्पुष्पदामायते,

सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपु:|

देवा: यान्ति वशं प्रसन्नमनस: किं वा बहु ब्रूमहे,

धर्मादेव नभोऽपि वर्षति नगै: कुर्वन्तु ते मंगलम् ||८||


इत्थं श्रीजिन-मंगलाष्टकमिदं सौभाग्य-सम्पत्प्रदं,

कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणामुष:|

ये श्रृण्वन्ति पठन्ति तैश्च सुजनै: धर्मार्थ-कामान्विता:,

लक्ष्मीराश्रयते व्यपाय-रहिता निर्वाण-लक्ष्मीरपि ||

© Jinvani Channel

Listen to Manglashtak Stotram now!

Over 10k people are enjoying background music and other features offered by Stavan. Try them now!

Similar Songs
No suggestions available
Central Circle

Jain Choghadiya Today - शुभ समय देखें

जानें हर दिन के शुभ-अशुभ मुहूर्त और चोगड़िया के आधार पर सही समय का चुनाव करें। धार्मिक कार्य, यात्रा, और महत्वपूर्ण निर्णयों के लिए जानें कौनसा समय सबसे अनुकूल है।